Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - रोमिणः - रोमिणः 4

रोमिणः 4:8-18

Help us?
Click on verse(s) to share them!
8स च धन्यः परेशेन पापं यस्य न गण्यते।
9एष धन्यवादस्त्वक्छेदिनम् अत्वक्छेदिनं वा कं प्रति भवति? इब्राहीमो विश्वासः पुण्यार्थं गणित इति वयं वदामः।
10स विश्वासस्तस्य त्वक्छेदित्वावस्थायां किम् अत्वक्छेदित्वावस्थायां कस्मिन् समये पुण्यमिव गणितः? त्वक्छेदित्वावस्थायां नहि किन्त्वत्वक्छेदित्वावस्थायां।
11अपरञ्च स यत् सर्व्वेषाम् अत्वक्छेदिनां विश्वासिनाम् आदिपुरुषो भवेत्, ते च पुण्यवत्त्वेन गण्येरन्;
12ये च लोकाः केवलं छिन्नत्वचो न सन्तो ऽस्मत्पूर्व्वपुरुष इब्राहीम् अछिन्नत्वक् सन् येन विश्वासमार्गेण गतवान् तेनैव तस्य पादचिह्नेन गच्छन्ति तेषां त्वक्छेदिनामप्यादिपुरुषो भवेत् तदर्थम् अत्वक्छेदिनो मानवस्य विश्वासात् पुण्यम् उत्पद्यत इति प्रमाणस्वरूपं त्वक्छेदचिह्नं स प्राप्नोत्।
13इब्राहीम् जगतोऽधिकारी भविष्यति यैषा प्रतिज्ञा तं तस्य वंशञ्च प्रति पूर्व्वम् अक्रियत सा व्यवस्थामूलिका नहि किन्तु विश्वासजन्यपुण्यमूलिका।
14यतो व्यवस्थावलम्बिनो यद्यधिकारिणो भवन्ति तर्हि विश्वासो विफलो जायते सा प्रतिज्ञापि लुप्तैव।
15अधिकन्तु व्यवस्था कोपं जनयति यतो ऽविद्यमानायां व्यवस्थायाम् आज्ञालङ्घनं न सम्भवति।
16अतएव सा प्रतिज्ञा यद् अनुग्रहस्य फलं भवेत् तदर्थं विश्वासमूलिका यतस्तथात्वे तद्वंशसमुदायं प्रति अर्थतो ये व्यवस्थया तद्वंशसम्भवाः केवलं तान् प्रति नहि किन्तु य इब्राहीमीयविश्वासेन तत्सम्भवास्तानपि प्रति सा प्रतिज्ञा स्थास्नुर्भवति।
17यो निर्जीवान् सजीवान् अविद्यमानानि वस्तूनि च विद्यमानानि करोति इब्राहीमो विश्वासभूमेस्तस्येश्वरस्य साक्षात् सोऽस्माकं सर्व्वेषाम् आदिपुरुष आस्ते, यथा लिखितं विद्यते, अहं त्वां बहुजातीनाम् आदिपुरुषं कृत्वा नियुक्तवान्।
18त्वदीयस्तादृशो वंशो जनिष्यते यदिदं वाक्यं प्रतिश्रुतं तदनुसाराद् इब्राहीम् बहुदेशीयलोकानाम् आदिपुरुषो यद् भवति तदर्थं सोऽनपेक्षितव्यमप्यपेक्षमाणो विश्वासं कृतवान्।

Read रोमिणः 4रोमिणः 4
Compare रोमिणः 4:8-18रोमिणः 4:8-18