Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - रोमिणः - रोमिणः 16

रोमिणः 16:7-22

Help us?
Click on verse(s) to share them!
7अपरञ्च प्रेरितेषु ख्यातकीर्त्ती मदग्रे ख्रीष्टाश्रितौ मम स्वजातीयौ सहबन्दिनौ च यावान्द्रनीकयूनियौ तौ मम नमस्कारं ज्ञापयध्वं।
8तथा प्रभौ मत्प्रियतमम् आम्प्लियमपि मम नमस्कारं ज्ञापयध्वं।
9अपरं ख्रीष्टसेवायां मम सहकारिणम् ऊर्ब्बाणं मम प्रियतमं स्ताखुञ्च मम नमस्कारं ज्ञापयध्वं।
10अपरं ख्रीष्टेन परीक्षितम् आपिल्लिं मम नमस्कारं वदत, आरिष्टबूलस्य परिजनांश्च मम नमस्कारं ज्ञापयध्वं।
11अपरं मम ज्ञातिं हेरोदियोनं मम नमस्कारं वदत, तथा नार्किसस्य परिवाराणां मध्ये ये प्रभुमाश्रितास्तान् मम नमस्कारं वदत।
12अपरं प्रभोः सेवायां परिश्रमकारिण्यौ त्रुफेनात्रुफोषे मम नमस्कारं वदत, तथा प्रभोः सेवायाम् अत्यन्तं परिश्रमकारिणी या प्रिया पर्षिस्तां नमस्कारं ज्ञापयध्वं।
13अपरं प्रभोरभिरुचितं रूफं मम धर्म्ममाता या तस्य माता तामपि नमस्कारं वदत।
14अपरम् असुंकृतं फ्लिगोनं हर्म्मं पात्रबं हर्म्मिम् एतेषां सङ्गिभ्रातृगणञ्च नमस्कारं ज्ञापयध्वं।
15अपरं फिललगो यूलिया नीरियस्तस्य भगिन्यलुम्पा चैतान् एतैः सार्द्धं यावन्तः पवित्रलोका आसते तानपि नमस्कारं ज्ञापयध्वं।
16यूयं परस्परं पवित्रचुम्बनेन नमस्कुरुध्वं। ख्रीष्टस्य धर्म्मसमाजगणो युष्मान् नमस्कुरुते।
17हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च।
18यतस्तादृशा लोका अस्माकं प्रभो र्यीशुख्रीष्टस्य दासा इति नहि किन्तु स्वोदरस्यैव दासाः; अपरं प्रणयवचनै र्मधुरवाक्यैश्च सरललोकानां मनांसि मोहयन्ति।
19युष्माकम् आज्ञाग्राहित्वं सर्व्वत्र सर्व्वै र्ज्ञातं ततोऽहं युष्मासु सानन्दोऽभवं तथापि यूयं यत् सत्ज्ञानेन ज्ञानिनः कुज्ञानेे चातत्परा भवेतेति ममाभिलाषः।
20अधिकन्तु शान्तिदायक ईश्वरः शैतानम् अविलम्बं युष्माकं पदानाम् अधो मर्द्दिष्यति। अस्माकं प्रभु र्यीशुख्रीष्टो युष्मासु प्रसादं क्रियात्। इति।
21मम सहकारी तीमथियो मम ज्ञातयो लूकियो यासोन् सोसिपात्रश्चेमे युष्मान् नमस्कुर्व्वन्ते।
22अपरम् एतत्पत्रलेखकस्तर्त्तियनामाहमपि प्रभो र्नाम्ना युष्मान् नमस्करोमि।

Read रोमिणः 16रोमिणः 16
Compare रोमिणः 16:7-22रोमिणः 16:7-22