3ततः स प्रत्युदितवान् एतस्य वास्य पित्रोः पापाद् एतादृशोभूद इति नहि किन्त्वनेन यथेश्वरस्य कर्म्म प्रकाश्यते तद्धेतोरेव।
4दिने तिष्ठति मत्प्रेरयितुः कर्म्म मया कर्त्तव्यं यदा किमपि कर्म्म न क्रियते तादृशी निशागच्छति।
5अहं यावत्कालं जगति तिष्ठामि तावत्कालं जगतो ज्योतिःस्वरूपोस्मि।
6इत्युक्त्ता भूमौ निष्ठीवं निक्षिप्य तेन पङ्कं कृतवान्
7पश्चात् तत्पङ्केन तस्यान्धस्य नेत्रे प्रलिप्य तमित्यादिशत् गत्वा शिलोहे ऽर्थात् प्रेरितनाम्नि सरसि स्नाहि। ततोन्धो गत्वा तत्रास्नात् ततः प्रन्नचक्षु र्भूत्वा व्याघुट्यागात्।
8अपरञ्च समीपवासिनो लोका ये च तं पूर्व्वमन्धम् अपश्यन् ते बक्त्तुम् आरभन्त योन्धलोको वर्त्मन्युपविश्याभिक्षत स एवायं जनः किं न भवति?
9केचिदवदन् स एव केचिदवोचन् तादृशो भवति किन्तु स स्वयमब्रवीत् स एवाहं भवामि।
10अतएव ते ऽपृच्छन् त्वं कथं दृष्टिं पाप्तवान्?
11ततः सोवदद् यीशनामक एको जनो मम नयने पङ्केन प्रलिप्य इत्याज्ञापयत् शिलोहकासारं गत्वा तत्र स्नाहि। ततस्तत्र गत्वा मयि स्नाते दृष्टिमहं लब्धवान्।
12तदा ते ऽवदन् स पुमान् कुत्र? तेनोक्त्तं नाहं जानामि।
13अपरं तस्मिन् पूर्व्वान्धे जने फिरूशिनां निकटम् आनीते सति फिरूशिनोपि तमपृच्छन् कथं दृष्टिं प्राप्तोसि?
14ततः स कथितवान् स पङ्केन मम नेत्रे ऽलिम्पत् पश्चाद् स्नात्वा दृष्टिमलभे।
15किन्तु यीशु र्विश्रामवारे कर्द्दमं कृत्वा तस्य नयने प्रसन्नेऽकरोद् इतिकारणात् कतिपयफिरूशिनोऽवदन्
16स पुमान् ईश्वरान्न यतः स विश्रामवारं न मन्यते। ततोन्ये केचित् प्रत्यवदन् पापी पुमान् किम् एतादृशम् आश्चर्य्यं कर्म्म कर्त्तुं शक्नोति?
17इत्थं तेषां परस्परं भिन्नवाक्यत्वम् अभवत्। पश्चात् ते पुनरपि तं पूर्व्वान्धं मानुषम् अप्राक्षुः यो जनस्तव चक्षुषी प्रसन्ने कृतवान् तस्मिन् त्वं किं वदसि? स उक्त्तवान् स भविशद्वादी।