52यिहूदीयास्तमवदन् त्वं भूतग्रस्त इतीदानीम् अवैष्म। इब्राहीम् भविष्यद्वादिनञ्च सर्व्वे मृताः किन्तु त्वं भाषसे यो नरो मम भारतीं गृह्लाति स जातु निधानास्वादं न लप्स्यते।
53तर्हि त्वं किम् अस्माकं पूर्व्वपुरुषाद् इब्राहीमोपि महान्? यस्मात् सोपि मृतः भविष्यद्वादिनोपि मृताः त्वं स्वं कं पुमांसं मनुषे?
54यीशुः प्रत्यवोचद् यद्यहं स्वं स्वयं सम्मन्ये तर्हि मम तत् सम्मननं किमपि न किन्तु मम तातो यं यूयं स्वीयम् ईश्वरं भाषध्वे सएव मां सम्मनुते।
55यूयं तं नावगच्छथ किन्त्वहं तमवगच्छामि तं नावगच्छामीति वाक्यं यदि वदामि तर्हि यूयमिव मृषाभाषी भवामि किन्त्वहं तमवगच्छामि तदाक्षामपि गृह्लामि।
56युष्माकं पूर्व्वपुरुष इब्राहीम् मम समयं द्रष्टुम् अतीवावाञ्छत् तन्निरीक्ष्यानन्दच्च।
57तदा यिहूदीया अपृच्छन् तव वयः पञ्चाशद्वत्सरा न त्वं किम् इब्राहीमम् अद्राक्षीः?