1ततः परं यिहूदीयलोकास्तं हन्तुं समैहन्त तस्माद् यीशु र्यिहूदाप्रदेशे पर्य्यटितुं नेच्छन् गालील् प्रदेशे पर्य्यटितुं प्रारभत।
2किन्तु तस्मिन् समये यिहूदीयानां दूष्यवासनामोत्सव उपस्थिते
3तस्य भ्रातरस्तम् अवदन् यानि कर्म्माणि त्वया क्रियन्ते तानि यथा तव शिष्याः पश्यन्ति तदर्थं त्वमितः स्थानाद् यिहूदीयदेशं व्रज।
4यः कश्चित् स्वयं प्रचिकाशिषति स कदापि गुप्तं कर्म्म न करोति यदीदृशं कर्म्म करोषि तर्हि जगति निजं परिचायय।
5यतस्तस्य भ्रातरोपि तं न विश्वसन्ति।
6तदा यीशुस्तान् अवोचत् मम समय इदानीं नोपतिष्ठति किन्तु युष्माकं समयः सततम् उपतिष्ठति।
7जगतो लोका युष्मान् ऋतीयितुं न शक्रुवन्ति किन्तु मामेव ऋतीयन्ते यतस्तेषां कर्माणि दुष्टानि तत्र साक्ष्यमिदम् अहं ददामि।
8अतएव यूयम् उत्सवेऽस्मिन् यात नाहम् इदानीम् अस्मिन्नुत्सवे यामि यतो मम समय इदानीं न सम्पूर्णः।