9स तत्क्षणात् स्वस्थो भूत्वा शय्यामुत्तोल्यादाय गतवान् किन्तु तद्दिनं विश्रामवारः।
10तस्माद् यिहूदीयाः स्वस्थं नरं व्याहरन् अद्य विश्रामवारे शयनीयमादाय न यातव्यम्।
11ततः स प्रत्यवोचद् यो मां स्वस्थम् अकार्षीत् शयनीयम् उत्तोल्यादाय यातुं मां स एवादिशत्।
12तदा तेऽपृच्छन् शयनीयम् उत्तोल्यादाय यातुं य आज्ञापयत् स कः?
13किन्तु स क इति स्वस्थीभूतो नाजानाद् यतस्तस्मिन् स्थाने जनतासत्त्वाद् यीशुः स्थानान्तरम् आगमत्।
14ततः परं येशु र्मन्दिरे तं नरं साक्षात्प्राप्याकथयत् पश्येदानीम् अनामयो जातोसि यथाधिका दुर्दशा न घटते तद्धेतोः पापं कर्म्म पुनर्माकार्षीः।
15ततः स गत्वा यिहूदीयान् अवदद् यीशु र्माम् अरोगिणम् अकार्षीत्।
16ततो यीशु र्विश्रामवारे कर्म्मेदृशं कृतवान् इति हेतो र्यिहूदीयास्तं ताडयित्वा हन्तुम् अचेष्टन्त।
17यीशुस्तानाख्यत् मम पिता यत् कार्य्यं करोति तदनुरूपम् अहमपि करोति।
18ततो यिहूदीयास्तं हन्तुं पुनरयतन्त यतो विश्रामवारं नामन्यत तदेव केवलं न अधिकन्तु ईश्वरं स्वपितरं प्रोच्य स्वमपीश्वरतुल्यं कृतवान्।