Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 5

योहनः 5:22-35

Help us?
Click on verse(s) to share them!
22सर्व्वे पितरं यथा सत्कुर्व्वन्ति तथा पुत्रमपि सत्कारयितुं पिता स्वयं कस्यापि विचारमकृत्वा सर्व्वविचाराणां भारं पुत्रे समर्पितवान्।
23यः पुत्रं सत् करोति स तस्य प्रेरकमपि सत् करोति।
24युष्मानाहं यथार्थतरं वदामि यो जनो मम वाक्यं श्रुत्वा मत्प्रेरके विश्वसिति सोनन्तायुः प्राप्नोति कदापि दण्डबाजनं न भवति निधनादुत्थाय परमायुः प्राप्नोति।
25अहं युष्मानतियथार्थं वदामि यदा मृता ईश्वरपुत्रस्य निनादं श्रोष्यन्ति ये च श्रोष्यन्ति ते सजीवा भविष्यन्ति समय एतादृश आयाति वरम् इदानीमप्युपतिष्ठति।
26पिता यथा स्वयञ्जीवी तथा पुत्राय स्वयञ्जीवित्वाधिकारं दत्तवान्।
27स मनुष्यपुत्रः एतस्मात् कारणात् पिता दण्डकरणाधिकारमपि तस्मिन् समर्पितवान्।
28एतदर्थे यूयम् आश्चर्य्यं न मन्यध्वं यतो यस्मिन् समये तस्य निनादं श्रुत्वा श्मशानस्थाः सर्व्वे बहिरागमिष्यन्ति समय एतादृश उपस्थास्यति।
29तस्माद् ये सत्कर्म्माणि कृतवन्तस्त उत्थाय आयुः प्राप्स्यन्ति ये च कुकर्माणि कृतवन्तस्त उत्थाय दण्डं प्राप्स्यन्ति।
30अहं स्वयं किमपि कर्त्तुं न शक्नोमि यथा शुणोमि तथा विचारयामि मम विचारञ्च न्याय्यः यतोहं स्वीयाभीष्टं नेहित्वा मत्प्रेरयितुः पितुरिष्टम् ईहे।
31यदि स्वस्मिन् स्वयं साक्ष्यं ददामि तर्हि तत्साक्ष्यम् आग्राह्यं भवति ;
32किन्तु मदर्थेऽपरो जनः साक्ष्यं ददाति मदर्थे तस्य यत् साक्ष्यं तत् सत्यम् एतदप्यहं जानामि।
33युष्माभि र्योहनं प्रति लोकेषु प्रेरितेषु स सत्यकथायां साक्ष्यमददात्।
34मानुषादहं साक्ष्यं नोपेक्षे तथापि यूयं यथा परित्रयध्वे तदर्थम् इदं वाक्यं वदामि।
35योहन् देदीप्यमानो दीप इव तेजस्वी स्थितवान् यूयम् अल्पकालं तस्य दीप्त्यानन्दितुं सममन्यध्वं।

Read योहनः 5योहनः 5
Compare योहनः 5:22-35योहनः 5:22-35