2तस्मिन्नगरे मेषनाम्नो द्वारस्य समीपे इब्रीयभाषया बैथेस्दा नाम्ना पिष्करिणी पञ्चघट्टयुक्तासीत्।
3तस्यास्तेषु घट्टेषु किलालकम्पनम् अपेक्ष्य अन्धखञ्चशुष्काङ्गादयो बहवो रोगिणः पतन्तस्तिष्ठन्ति स्म।
4यतो विशेषकाले तस्य सरसो वारि स्वर्गीयदूत एत्याकम्पयत् तत्कीलालकम्पनात् परं यः कश्चिद् रोगी प्रथमं पानीयमवारोहत् स एव तत्क्षणाद् रोगमुक्तोऽभवत्।
5तदाष्टात्रिंशद्वर्षाणि यावद् रोगग्रस्त एकजनस्तस्मिन् स्थाने स्थितवान्।
6यीशुस्तं शयितं दृष्ट्वा बहुकालिकरोगीति ज्ञात्वा व्याहृतवान् त्वं किं स्वस्थो बुभूषसि?
7ततो रोगी कथितवान् हे महेच्छ यदा कीलालं कम्पते तदा मां पुष्करिणीम् अवरोहयितुं मम कोपि नास्ति, तस्मान् मम गमनकाले कश्चिदन्योऽग्रो गत्वा अवरोहति।
8तदा यीशुरकथयद् उत्तिष्ठ, तव शय्यामुत्तोल्य गृहीत्वा याहि।
9स तत्क्षणात् स्वस्थो भूत्वा शय्यामुत्तोल्यादाय गतवान् किन्तु तद्दिनं विश्रामवारः।
10तस्माद् यिहूदीयाः स्वस्थं नरं व्याहरन् अद्य विश्रामवारे शयनीयमादाय न यातव्यम्।
11ततः स प्रत्यवोचद् यो मां स्वस्थम् अकार्षीत् शयनीयम् उत्तोल्यादाय यातुं मां स एवादिशत्।
12तदा तेऽपृच्छन् शयनीयम् उत्तोल्यादाय यातुं य आज्ञापयत् स कः?
13किन्तु स क इति स्वस्थीभूतो नाजानाद् यतस्तस्मिन् स्थाने जनतासत्त्वाद् यीशुः स्थानान्तरम् आगमत्।
14ततः परं येशु र्मन्दिरे तं नरं साक्षात्प्राप्याकथयत् पश्येदानीम् अनामयो जातोसि यथाधिका दुर्दशा न घटते तद्धेतोः पापं कर्म्म पुनर्माकार्षीः।