Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 4

योहनः 4:33-38

Help us?
Click on verse(s) to share them!
33तदा शिष्याः परस्परं प्रष्टुम् आरम्भन्त, किमस्मै कोपि किमपि भक्ष्यमानीय दत्तवान्?
34यीशुरवोचत् मत्प्रेरकस्याभिमतानुरूपकरणं तस्यैव कर्म्मसिद्धिकारणञ्च मम भक्ष्यं।
35मासचतुष्टये जाते शस्यकर्त्तनसमयो भविष्यतीति वाक्यं युष्माभिः किं नोद्यते? किन्त्वहं वदामि, शिर उत्तोल्य क्षेत्राणि प्रति निरीक्ष्य पश्यत, इदानीं कर्त्तनयोग्यानि शुक्लवर्णान्यभवन्।
36यश्छिनत्ति स वेतनं लभते अनन्तायुःस्वरूपं शस्यं स गृह्लाति च, तेनैव वप्ता छेत्ता च युगपद् आनन्दतः।
37इत्थं सति वपत्येकश्छिनत्यन्य इति वचनं सिद्ध्यति।
38यत्र यूयं न पर्य्यश्राम्यत तादृशं शस्यं छेत्तुं युष्मान् प्रैरयम् अन्ये जनाःपर्य्यश्राम्यन् यूयं तेषां श्रगस्य फलम् अलभध्वम्।

Read योहनः 4योहनः 4
Compare योहनः 4:33-38योहनः 4:33-38