Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 3

योहनः 3:4-23

Help us?
Click on verse(s) to share them!
4ततो निकदीमः प्रत्यवोचत् मनुजो वृद्धो भूत्वा कथं जनिष्यते? स किं पुन र्मातृर्जठरं प्रविश्य जनितुं शक्नोति?
5यीशुरवादीद् यथार्थतरम् अहं कथयामि मनुजे तोयात्मभ्यां पुन र्न जाते स ईश्वरस्य राज्यं प्रवेष्टुं न शक्नोति।
6मांसाद् यत् जायते तन् मांसमेव तथात्मनो यो जायते स आत्मैव।
7युष्माभिः पुन र्जनितव्यं ममैतस्यां कथायाम् आश्चर्यं मा मंस्थाः।
8सदागतिर्यां दिशमिच्छति तस्यामेव दिशि वाति, त्वं तस्य स्वनं शुणोषि किन्तु स कुत आयाति कुत्र याति वा किमपि न जानासि तद्वाद् आत्मनः सकाशात् सर्व्वेषां मनुजानां जन्म भवति।
9तदा निकदीमः पृष्टवान् एतत् कथं भवितुं शक्नोति?
10यीशुः प्रत्यक्तवान् त्वमिस्रायेलो गुरुर्भूत्वापि किमेतां कथां न वेत्सि?
11तुभ्यं यथार्थं कथयामि, वयं यद् विद्मस्तद् वच्मः यंच्च पश्यामस्तस्यैव साक्ष्यं दद्मः किन्तु युष्माभिरस्माकं साक्षित्वं न गृह्यते।
12एतस्य संसारस्य कथायां कथितायां यदि यूयं न विश्वसिथ तर्हि स्वर्गीयायां कथायां कथं विश्वसिष्यथ?
13यः स्वर्गेऽस्ति यं च स्वर्गाद् अवारोहत् तं मानवतनयं विना कोपि स्वर्गं नारोहत्।
14अपरञ्च मूसा यथा प्रान्तरे सर्पं प्रोत्थापितवान् मनुष्यपुत्रोऽपि तथैवोत्थापितव्यः;
15तस्माद् यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।
16ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।
17ईश्वरो जगतो लोकान् दण्डयितुं स्वपुत्रं न प्रेष्य तान् परित्रातुं प्रेषितवान्।
18अतएव यः कश्चित् तस्मिन् विश्वसिति स दण्डार्हो न भवति किन्तु यः कश्चित् तस्मिन् न विश्वसिति स इदानीमेव दण्डार्हो भवति,यतः स ईश्वरस्याद्वितीयपुत्रस्य नामनि प्रत्ययं न करोति।
19जगतो मध्ये ज्योतिः प्राकाशत किन्तु मनुष्याणां कर्म्मणां दृष्टत्वात् ते ज्योतिषोपि तिमिरे प्रीयन्ते एतदेव दण्डस्य कारणां भवति।
20यः कुकर्म्म करोति तस्याचारस्य दृष्टत्वात् स ज्योतिर्ॠतीयित्वा तन्निकटं नायाति;
21किन्तु यः सत्कर्म्म करोति तस्य सर्व्वाणि कर्म्माणीश्वरेण कृतानीति सथा प्रकाशते तदभिप्रायेण स ज्योतिषः सन्निधिम् आयाति।
22ततः परम् यीशुः शिष्यैः सार्द्धं यिहूदीयदेशं गत्वा तत्र स्थित्वा मज्जयितुम् आरभत।
23तदा शालम् नगरस्य समीपस्थायिनि ऐनन् ग्रामे बहुतरतोयस्थितेस्तत्र योहन् अमज्जयत् तथा च लोका आगत्य तेन मज्जिता अभवन्।

Read योहनः 3योहनः 3
Compare योहनः 3:4-23योहनः 3:4-23