Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 21

योहनः 21:13-22

Help us?
Click on verse(s) to share them!
13ततो यीशुरागत्य पूपान् मत्स्यांश्च गृहीत्वा तेभ्यः पर्य्यवेषयत्।
14इत्थं श्मशानादुत्थानात् परं यीशुः शिष्येभ्यस्तृतीयवारं दर्शनं दत्तवान्।
15भोजने समाप्ते सति यीशुः शिमोन्पितरं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किम् एतेभ्योधिकं मयि प्रीयसे? ततः स उदितवान् सत्यं प्रभो त्वयि प्रीयेऽहं तद् भवान् जानाति; तदा यीशुरकथयत् तर्हि मम मेषशावकगणं पालय।
16ततः स द्वितीयवारं पृष्टवान् हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? ततः स उक्तवान् सत्यं प्रभो त्वयि प्रीयेऽहं तद् भवान् जानाति; तदा यीशुरकथयत तर्हि मम मेषगणं पालय।
17पश्चात् स तृतीयवारं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? एतद्वाक्यं तृतीयवारं पृष्टवान् तस्मात् पितरो दुःखितो भूत्वाऽकथयत् हे प्रभो भवतः किमप्यगोचरं नास्ति त्वय्यहं प्रीये तद् भवान् जानाति; ततो यीशुरवदत् तर्हि मम मेषगणं पालय।
18अहं तुभ्यं यथार्थं कथयामि यौवनकाले स्वयं बद्धकटि र्यत्रेच्छा तत्र यातवान् किन्त्वितः परं वृद्धे वयसि हस्तं विस्तारयिष्यसि, अन्यजनस्त्वां बद्ध्वा यत्र गन्तुं तवेच्छा न भवति त्वां धृत्वा तत्र नेष्यति।
19फलतः कीदृशेन मरणेन स ईश्वरस्य महिमानं प्रकाशयिष्यति तद् बोधयितुं स इति वाक्यं प्रोक्तवान्। इत्युक्ते सति स तमवोचत् मम पश्चाद् आगच्छ।
20यो जनो रात्रिकाले यीशो र्वक्षोऽवलम्ब्य, हे प्रभो को भवन्तं परकरेषु समर्पयिष्यतीति वाक्यं पृष्टवान्, तं यीशोः प्रियतमशिष्यं पश्चाद् आगच्छन्तं
21पितरो मुखं परावर्त्त्य विलोक्य यीशुं पृष्टवान्, हे प्रभो एतस्य मानवस्य कीदृशी गति र्भविष्यति?
22स प्रत्यवदत्, मम पुनरागमनपर्य्यन्तं यदि तं स्थापयितुम् इच्छामि तत्र तव किं? त्वं मम पश्चाद् आगच्छ।

Read योहनः 21योहनः 21
Compare योहनः 21:13-22योहनः 21:13-22