Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 20

योहनः 20:20-27

Help us?
Click on verse(s) to share them!
20इत्युक्त्वा निजहस्तं कुक्षिञ्च दर्शितवान्, ततः शिष्याः प्रभुं दृष्ट्वा हृष्टा अभवन्।
21यीशुः पुनरवदद् युष्माकं कल्याणं भूयात् पिता यथा मां प्रैषयत् तथाहमपि युष्मान् प्रेषयामि।
22इत्युक्त्वा स तेषामुपरि दीर्घप्रश्वासं दत्त्वा कथितवान् पवित्रम् आत्मानं गृह्लीत।
23यूयं येषां पापानि मोचयिष्यथ ते मोचयिष्यन्ते येषाञ्च पापाति न मोचयिष्यथ ते न मोचयिष्यन्ते।
24द्वादशमध्ये गणितो यमजो थोमानामा शिष्यो यीशोरागमनकालै तैः सार्द्धं नासीत्।
25अतो वयं प्रभूम् अपश्यामेति वाक्येऽन्यशिष्यैरुक्ते सोवदत्, तस्य हस्तयो र्लौहकीलकानां चिह्नं न विलोक्य तच्चिह्नम् अङ्गुल्या न स्पृष्ट्वा तस्य कुक्षौ हस्तं नारोप्य चाहं न विश्वसिष्यामि।
26अपरम् अष्टमेऽह्नि गते सति थोमासहितः शिष्यगण एकत्र मिलित्वा द्वारं रुद्ध्वाभ्यन्तर आसीत्, एतर्हि यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयत्, युष्माकं कुशलं भूयात्।
27पश्चात् थामै कथितवान् त्वम् अङ्गुलीम् अत्रार्पयित्वा मम करौ पश्य करं प्रसार्य्य मम कुक्षावर्पय नाविश्वस्य।

Read योहनः 20योहनः 20
Compare योहनः 20:20-27योहनः 20:20-27