31तद्विनम् आसादनदिनं तस्मात् परेऽहनि विश्रामवारे देहा यथा क्रुशोपरि न तिष्ठन्ति, यतः स विश्रामवारो महादिनमासीत्, तस्माद् यिहूदीयाः पीलातनिकटं गत्वा तेषां पादभञ्जनस्य स्थानान्तरनयनस्य चानुमतिं प्रार्थयन्त।
32अतः सेना आगत्य यीशुना सह क्रुशे हतयोः प्रथमद्वितीयचोरयोः पादान् अभञ्जन्;
33किन्तु यीशोः सन्निधिं गत्वा स मृत इति दृष्ट्वा तस्य पादौ नाभञ्जन्।
34पश्चाद् एको योद्धा शूलाघातेन तस्य कुक्षिम् अविधत् तत्क्षणात् तस्माद् रक्तं जलञ्च निरगच्छत्।
35यो जनोऽस्य साक्ष्यं ददाति स स्वयं दृष्टवान् तस्येदं साक्ष्यं सत्यं तस्य कथा युष्माकं विश्वासं जनयितुं योग्या तत् स जानाति।
36तस्यैकम् अस्ध्यपि न भंक्ष्यते,
37तद्वद् अन्यशास्त्रेपि लिख्यते, यथा, "दृष्टिपातं करिष्यन्ति तेऽविधन् यन्तु तम्प्रति।"
38अरिमथीयनगरस्य यूषफ्नामा शिष्य एक आसीत् किन्तु यिहूदीयेभ्यो भयात् प्रकाशितो न भवति; स यीशो र्देहं नेतुं पीलातस्यानुमतिं प्रार्थयत, ततः पीलातेनानुमते सति स गत्वा यीशो र्देहम् अनयत्।
39अपरं यो निकदीमो रात्रौ यीशोः समीपम् अगच्छत् सोपि गन्धरसेन मिश्रितं प्रायेण पञ्चाशत्सेटकमगुरुं गृहीत्वागच्छत्।
40ततस्ते यिहूदीयानां श्मशाने स्थापनरीत्यनुसारेण तत्सुगन्धिद्रव्येण सहितं तस्य देहं वस्त्रेणावेष्टयन्।