Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - योहनः - योहनः 19

योहनः 19:17-22

Help us?
Click on verse(s) to share them!
17ततः परं यीशुः क्रुशं वहन् शिरःकपालम् अर्थाद् यद् इब्रीयभाषया गुल्गल्तां वदन्ति तस्मिन् स्थान उपस्थितः।
18ततस्ते मध्यस्थाने तं तस्योभयपार्श्वे द्वावपरौ क्रुशेऽविधन्।
19अपरम् एष यिहूदीयानां राजा नासरतीययीशुः, इति विज्ञापनं लिखित्वा पीलातस्तस्य क्रुशोपरि समयोजयत्।
20सा लिपिः इब्रीययूनानीयरोमीयभाषाभि र्लिखिता; यीशोः क्रुशवेधनस्थानं नगरस्य समीपं, तस्माद् बहवो यिहूदीयास्तां पठितुम् आरभन्त।
21यिहूदीयानां प्रधानयाजकाः पीलातमिति न्यवेदयन् यिहूदीयानां राजेति वाक्यं न किन्तु एष स्वं यिहूदीयानां राजानम् अवदद् इत्थं लिखतु।
22ततः पीलात उत्तरं दत्तवान् यल्लेखनीयं तल्लिखितवान्।

Read योहनः 19योहनः 19
Compare योहनः 19:17-22योहनः 19:17-22