Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - मार्कः - मार्कः 8

मार्कः 8:10-27

Help us?
Click on verse(s) to share them!
10अथ स शिष्यः सह नावमारुह्य दल्मानूथासीमामागतः।
11ततः परं फिरूशिन आगत्य तेन सह विवदमानास्तस्य परीक्षार्थम् आकाशीयचिह्नं द्रष्टुं याचितवन्तः।
12तदा सोऽन्तर्दीर्घं निश्वस्याकथयत्, एते विद्यमाननराः कुतश्चिन्हं मृगयन्ते? युष्मानहं यथार्थं ब्रवीमि लोकानेतान् किमपि चिह्नं न दर्शयिष्यते।
13अथ तान् हित्वा पुन र्नावम् आरुह्य पारमगात्।
14एतर्हि शिष्यैः पूपेषु विस्मृतेषु नावि तेषां सन्निधौ पूप एकएव स्थितः।
15तदानीं यीशुस्तान् आदिष्टवान् फिरूशिनां हेरोदश्च किण्वं प्रति सतर्काः सावधानाश्च भवत।
16ततस्तेऽन्योन्यं विवेचनं कर्तुम् आरेभिरे, अस्माकं सन्निधौ पूपो नास्तीति हेतोरिदं कथयति।
17तद् बुद्व्वा यीशुस्तेभ्योऽकथयत् युष्माकं स्थाने पूपाभावात् कुत इत्थं वितर्कयथ? यूयं किमद्यापि किमपि न जानीथ? बोद्धुञ्च न शक्नुथ? यावदद्य किं युष्माकं मनांसि कठिनानि सन्ति?
18सत्सु नेत्रेषु किं न पश्यथ? सत्सु कर्णेषु किं न शृणुथ? न स्मरथ च?
19यदाहं पञ्चपूपान् पञ्चसहस्राणां पुरुषाणां मध्ये भंक्त्वा दत्तवान् तदानीं यूयम् अवशिष्टपूपैः पूर्णान् कति डल्लकान् गृहीतवन्तः? तेऽकथयन् द्वादशडल्लकान्।
20अपरञ्च यदा चतुःसहस्राणां पुरुषाणां मध्ये पूपान् भंक्त्वाददां तदा यूयम् अतिरिक्तपूपानां कति डल्लकान् गृहीतवन्तः? ते कथयामासुः सप्तडल्लकान्।
21तदा स कथितवान् तर्हि यूयम् अधुनापि कुतो बोद्व्वुं न शक्नुथ?
22अनन्तरं तस्मिन् बैत्सैदानगरे प्राप्ते लोका अन्धमेकं नरं तत्समीपमानीय तं स्प्रष्टुं तं प्रार्थयाञ्चक्रिरे।
23तदा तस्यान्धस्य करौ गृहीत्वा नगराद् बहिर्देशं तं नीतवान्; तन्नेत्रे निष्ठीवं दत्त्वा तद्गात्रे हस्तावर्पयित्वा तं पप्रच्छ, किमपि पश्यसि?
24स नेत्रे उन्मील्य जगाद, वृक्षवत् मनुजान् गच्छतो निरीक्षे।
25ततो यीशुः पुनस्तस्य नयनयो र्हस्तावर्पयित्वा तस्य नेत्रे उन्मीलयामास; तस्मात् स स्वस्थो भूत्वा स्पष्टरूपं सर्व्वलोकान् ददर्श।
26ततः परं त्वं ग्रामं मा गच्छ ग्रामस्थं कमपि च किमप्यनुक्त्वा निजगृहं याहीत्यादिश्य यीशुस्तं निजगृहं प्रहितवान्।
27अनन्तरं शिष्यैः सहितो यीशुः कैसरीयाफिलिपिपुरं जगाम, पथि गच्छन् तानपृच्छत् कोऽहम् अत्र लोकाः किं वदन्ति?

Read मार्कः 8मार्कः 8
Compare मार्कः 8:10-27मार्कः 8:10-27