16किन्तु हेरोद् इत्याकर्ण्य भाषितवान् यस्याहं शिरश्छिन्नवान् स एव योहनयं स श्मशानादुदतिष्ठत्।
17पूर्व्वं स्वभ्रातुः फिलिपस्य पत्न्या उद्वाहं कृतवन्तं हेरोदं योहनवादीत् स्वभातृवधू र्न विवाह्या।
18अतः कारणात् हेरोद् लोकं प्रहित्य योहनं धृत्वा बन्धनालये बद्धवान्।
19हेरोदिया तस्मै योहने प्रकुप्य तं हन्तुम् ऐच्छत् किन्तु न शक्ता,
20यस्माद् हेरोद् तं धार्म्मिकं सत्पुरुषञ्च ज्ञात्वा सम्मन्य रक्षितवान्; तत्कथां श्रुत्वा तदनुसारेण बहूनि कर्म्माणि कृतवान् हृष्टमनास्तदुपदेशं श्रुतवांश्च।
21किन्तु हेरोद् यदा स्वजन्मदिने प्रधानलोकेभ्यः सेनानीभ्यश्च गालील्प्रदेशीयश्रेष्ठलोकेभ्यश्च रात्रौ भोज्यमेकं कृतवान्
22तस्मिन् शुभदिने हेरोदियायाः कन्या समेत्य तेषां समक्षं संनृत्य हेरोदस्तेन सहोपविष्टानाञ्च तोषमजीजनत् तता नृपः कन्यामाह स्म मत्तो यद् याचसे तदेव तुभ्यं दास्ये।
23शपथं कृत्वाकथयत् चेद् राज्यार्द्धमपि याचसे तदपि तुभ्यं दास्ये।
24ततः सा बहि र्गत्वा स्वमातरं पप्रच्छ किमहं याचिष्ये? तदा साकथयत् योहनो मज्जकस्य शिरः।
25अथ तूर्णं भूपसमीपम् एत्य याचमानावदत् क्षणेस्मिन् योहनो मज्जकस्य शिरः पात्रे निधाय देहि, एतद् याचेऽहं।
26तस्मात् भूपोऽतिदुःखितः, तथापि स्वशपथस्य सहभोजिनाञ्चानुरोधात् तदनङ्गीकर्त्तुं न शक्तः।
27तत्क्षणं राजा घातकं प्रेष्य तस्य शिर आनेतुमादिष्टवान्।
28ततः स कारागारं गत्वा तच्छिरश्छित्वा पात्रे निधायानीय तस्यै कन्यायै दत्तवान् कन्या च स्वमात्रे ददौ।
29अननतरं योहनः शिष्यास्तद्वार्त्तां प्राप्यागत्य तस्य कुणपं श्मशानेऽस्थापयन्।
30अथ प्रेषिता यीशोः सन्निधौ मिलिता यद् यच् चक्रुः शिक्षयामासुश्च तत्सर्व्ववार्त्तास्तस्मै कथितवन्तः।
31स तानुवाच यूयं विजनस्थानं गत्वा विश्राम्यत यतस्तत्सन्निधौ बहुलोकानां समागमात् ते भोक्तुं नावकाशं प्राप्ताः।