Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 8

प्रेरिताः 8:15-39

Help us?
Click on verse(s) to share them!
15ततस्तौ तत् स्थानम् उपस्थाय लोका यथा पवित्रम् आत्मानं प्राप्नुवन्ति तदर्थं प्रार्थयेतां।
16यतस्ते पुरा केवलप्रभुयीशो र्नाम्ना मज्जितमात्रा अभवन्, न तु तेषां मध्ये कमपि प्रति पवित्रस्यात्मन आविर्भावो जातः।
17किन्तु प्रेरिताभ्यां तेषां गात्रेषु करेष्वर्पितेषु सत्सु ते पवित्रम् आत्मानम् प्राप्नुवन्।
18इत्थं लोकानां गात्रेषु प्रेरितयोः करार्पणेन तान् पवित्रम् आत्मानं प्राप्तान् दृष्ट्वा स शिमोन् तयोः समीपे मुद्रा आनीय कथितवान्;
19अहं यस्य गात्रे हस्तम् अर्पयिष्यामि तस्यापि यथेत्थं पवित्रात्मप्राप्ति र्भवति तादृशीं शक्तिं मह्यं दत्तं।
20किन्तु पितरस्तं प्रत्यवदत् तव मुद्रास्त्वया विनश्यन्तु यत ईश्वरस्य दानं मुद्राभिः क्रीयते त्वमित्थं बुद्धवान्;
21ईश्वराय तावन्तःकरणं सरलं नहि, तस्माद् अत्र तवांशोऽधिकारश्च कोपि नास्ति।
22अत एतत्पापहेतोः खेदान्वितः सन् केनापि प्रकारेण तव मनस एतस्याः कुकल्पनायाः क्षमा भवति, एतदर्थम् ईश्वरे प्रार्थनां कुरु;
23यतस्त्वं तिक्तपित्ते पापस्य बन्धने च यदसि तन्मया बुद्धम्।
24तदा शिमोन् अकथयत् तर्हि युवाभ्यामुदिता कथा मयि यथा न फलति तदर्थं युवां मन्निमित्तं प्रभौ प्रार्थनां कुरुतं।
25अनेन प्रकारेण तौ साक्ष्यं दत्त्वा प्रभोः कथां प्रचारयन्तौ शोमिरोणीयानाम् अनेकग्रामेषु सुसंवादञ्च प्रचारयन्तौ यिरूशालम्नगरं परावृत्य गतौ।
26ततः परम् ईश्वरस्य दूतः फिलिपम् इत्यादिशत्, त्वमुत्थाय दक्षिणस्यां दिशि यो मार्गो प्रान्तरस्य मध्येन यिरूशालमो ऽसानगरं याति तं मार्गं गच्छ।
27ततः स उत्थाय गतवान्; तदा कन्दाकीनाम्नः कूश्लोकानां राज्ञ्याः सर्व्वसम्पत्तेरधीशः कूशदेशीय एकः षण्डो भजनार्थं यिरूशालम्नगरम् आगत्य
28पुनरपि रथमारुह्य यिशयियनाम्नो भविष्यद्वादिनो ग्रन्थं पठन् प्रत्यागच्छति।
29एतस्मिन् समये आत्मा फिलिपम् अवदत्, त्वम् रथस्य समीपं गत्वा तेन सार्द्धं मिल।
30तस्मात् स धावन् तस्य सन्निधावुपस्थाय तेन पठ्यमानं यिशयियथविष्यद्वादिनो वाक्यं श्रुत्वा पृष्टवान् यत् पठसि तत् किं बुध्यसे?
31ततः स कथितवान् केनचिन्न बोधितोहं कथं बुध्येय? ततः स फिलिपं रथमारोढुं स्वेन सार्द्धम् उपवेष्टुञ्च न्यवेदयत्।
32स शास्त्रस्येतद्वाक्यं पठितवान् यथा, समानीयत घाताय स यथा मेषशावकः। लोमच्छेदकसाक्षाच्च मेषश्च नीरवो यथा। आबध्य वदनं स्वीयं तथा स समतिष्ठत।
33अन्यायेन विचारेण स उच्छिन्नो ऽभवत् तदा। तत्कालीनमनुष्यान् को जनो वर्णयितुं क्षमः। यतो जीवन्नृणां देशात् स उच्छिन्नो ऽभवत् ध्रुवं।
34अनन्तरं स फिलिपम् अवदत् निवेदयामि, भविष्यद्वादी यामिमां कथां कथयामास स किं स्वस्मिन् वा कस्मिंश्चिद् अन्यस्मिन्?
35ततः फिलिपस्तत्प्रकरणम् आरभ्य यीशोरुपाख्यानं तस्याग्रे प्रास्तौत्।
36इत्थं मार्गेण गच्छन्तौ जलाशयस्य समीप उपस्थितौ; तदा क्लीबोऽवादीत् पश्यात्र स्थाने जलमास्ते मम मज्जने का बाधा?
37ततः फिलिप उत्तरं व्याहरत् स्वान्तःकरणेन साकं यदि प्रत्येषि तर्हि बाधा नास्ति। ततः स कथितवान् यीशुख्रीष्ट ईश्वरस्य पुत्र इत्यहं प्रत्येमि।
38तदा रथं स्थगितं कर्त्तुम् आदिष्टे फिलिपक्लीबौ द्वौ जलम् अवारुहतां; तदा फिलिपस्तम् मज्जयामास।
39तत्पश्चात् जलमध्याद् उत्थितयोः सतोः परमेश्वरस्यात्मा फिलिपं हृत्वा नीतवान्, तस्मात् क्लीबः पुनस्तं न दृष्टवान् तथापि हृष्टचित्तः सन् स्वमार्गेण गतवान्।

Read प्रेरिताः 8प्रेरिताः 8
Compare प्रेरिताः 8:15-39प्रेरिताः 8:15-39