Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 7

प्रेरिताः 7:6-27

Help us?
Click on verse(s) to share them!
6ईश्वर इत्थम् अपरमपि कथितवान् तव सन्तानाः परदेशे निवत्स्यन्ति ततस्तद्देशीयलोकाश्चतुःशतवत्सरान् यावत् तान् दासत्वे स्थापयित्वा तान् प्रति कुव्यवहारं करिष्यन्ति।
7अपरम् ईश्वर एनां कथामपि कथितवान्, ये लोकास्तान् दासत्वे स्थापयिष्यन्ति ताल्लोकान् अहं दण्डयिष्यामि, ततः परं ते बहिर्गताः सन्तो माम् अत्र स्थाने सेविष्यन्ते।
8पश्चात् स तस्मै त्वक्छेदस्य नियमं दत्तवान्, अत इस्हाकनाम्नि इब्राहीम एकपुत्रे जाते, अष्टमदिने तस्य त्वक्छेदम् अकरोत्। तस्य इस्हाकः पुत्रो याकूब्, ततस्तस्य याकूबोऽस्माकं द्वादश पूर्व्वपुरुषा अजायन्त।
9ते पूर्व्वपुरुषा ईर्ष्यया परिपूर्णा मिसरदेशं प्रेषयितुं यूषफं व्यक्रीणन्।
10किन्त्वीश्वरस्तस्य सहायो भूत्वा सर्व्वस्या दुर्गते रक्षित्वा तस्मै बुद्धिं दत्त्वा मिसरदेशस्य राज्ञः फिरौणः प्रियपात्रं कृतवान् ततो राजा मिसरदेशस्य स्वीयसर्व्वपरिवारस्य च शासनपदं तस्मै दत्तवान्।
11तस्मिन् समये मिसर-किनानदेशयो र्दुर्भिक्षहेतोरतिक्लिष्टत्वात् नः पूर्व्वपुरुषा भक्ष्यद्रव्यं नालभन्त।
12किन्तु मिसरदेशे शस्यानि सन्ति, याकूब् इमां वार्त्तां श्रुत्वा प्रथमम् अस्माकं पूर्व्वपुरुषान् मिसरं प्रेषितवान्।
13ततो द्वितीयवारगमने यूषफ् स्वभ्रातृभिः परिचितोऽभवत्; यूषफो भ्रातरः फिरौण् राजेन परिचिता अभवन्।
14अनन्तरं यूषफ् भ्रातृगणं प्रेष्य निजपितरं याकूबं निजान् पञ्चाधिकसप्ततिसंख्यकान् ज्ञातिजनांश्च समाहूतवान्।
15तस्माद् याकूब् मिसरदेशं गत्वा स्वयम् अस्माकं पूर्व्वपुरुषाश्च तस्मिन् स्थानेऽम्रियन्त।
16ततस्ते शिखिमं नीता यत् श्मशानम् इब्राहीम् मुद्रादत्वा शिखिमः पितु र्हमोरः पुत्रेभ्यः क्रीतवान् तत्श्मशाने स्थापयाञ्चक्रिरे।
17ततः परम् ईश्वर इब्राहीमः सन्निधौ शपथं कृत्वा यां प्रतिज्ञां कृतवान् तस्याः प्रतिज्ञायाः फलनसमये निकटे सति इस्रायेल्लोका सिमरदेशे वर्द्धमाना बहुसंख्या अभवन्।
18शेषे यूषफं यो न परिचिनोति तादृश एको नरपतिरुपस्थाय
19अस्माकं ज्ञातिभिः सार्द्धं धूर्त्ततां विधाय पूर्व्वपुरुषान् प्रति कुव्यवहरणपूर्व्वकं तेषां वंशनाशनाय तेषां नवजातान् शिशून् बहि र्निरक्षेपयत्।
20एतस्मिन् समये मूसा जज्ञे, स तु परमसुन्दरोऽभवत् तथा पितृगृहे मासत्रयपर्य्यन्तं पालितोऽभवत्।
21किन्तु तस्मिन् बहिर्निक्षिप्ते सति फिरौणराजस्य कन्या तम् उत्तोल्य नीत्वा दत्तकपुत्रं कृत्वा पालितवती।
22तस्मात् स मूसा मिसरदेशीयायाः सर्व्वविद्यायाः पारदृष्वा सन् वाक्ये क्रियायाञ्च शक्तिमान् अभवत्।
23स सम्पूर्णचत्वारिंशद्वत्सरवयस्को भूत्वा इस्रायेलीयवंशनिजभ्रातृन् साक्षात् कर्तुं मतिं चक्रे।
24तेषां जनमेकं हिंसितं दृष्ट्वा तस्य सपक्षः सन् हिंसितजनम् उपकृत्य मिसरीयजनं जघान।
25तस्य हस्तेनेश्वरस्तान् उद्धरिष्यति तस्य भ्रातृगण इति ज्ञास्यति स इत्यनुमानं चकार, किन्तु ते न बुबुधिरे।
26तत्परे ऽहनि तेषाम् उभयो र्जनयो र्वाक्कलह उपस्थिते सति मूसाः समीपं गत्वा तयो र्मेलनं कर्त्तुं मतिं कृत्वा कथयामास, हे महाशयौ युवां भ्रातरौ परस्परम् अन्यायं कुतः कुरुथः?
27ततः समीपवासिनं प्रति यो जनोऽन्यायं चकार स तं दूरीकृत्य कथयामास, अस्माकमुपरि शास्तृत्वविचारयितृत्वपदयोः कस्त्वां नियुक्तवान्?

Read प्रेरिताः 7प्रेरिताः 7
Compare प्रेरिताः 7:6-27प्रेरिताः 7:6-27