Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 7

प्रेरिताः 7:24-42

Help us?
Click on verse(s) to share them!
24तेषां जनमेकं हिंसितं दृष्ट्वा तस्य सपक्षः सन् हिंसितजनम् उपकृत्य मिसरीयजनं जघान।
25तस्य हस्तेनेश्वरस्तान् उद्धरिष्यति तस्य भ्रातृगण इति ज्ञास्यति स इत्यनुमानं चकार, किन्तु ते न बुबुधिरे।
26तत्परे ऽहनि तेषाम् उभयो र्जनयो र्वाक्कलह उपस्थिते सति मूसाः समीपं गत्वा तयो र्मेलनं कर्त्तुं मतिं कृत्वा कथयामास, हे महाशयौ युवां भ्रातरौ परस्परम् अन्यायं कुतः कुरुथः?
27ततः समीपवासिनं प्रति यो जनोऽन्यायं चकार स तं दूरीकृत्य कथयामास, अस्माकमुपरि शास्तृत्वविचारयितृत्वपदयोः कस्त्वां नियुक्तवान्?
28ह्यो यथा मिसरीयं हतवान् तथा किं मामपि हनिष्यसि?
29तदा मूसा एतादृशीं कथां श्रुत्वा पलायनं चक्रे, ततो मिदियनदेशं गत्वा प्रवासी सन् तस्थौ, ततस्तत्र द्वौ पुत्रौ जज्ञाते।
30अनन्तरं चत्वारिंशद्वत्सरेषु गतेषु सीनयपर्व्वतस्य प्रान्तरे प्रज्वलितस्तम्बस्य वह्निशिखायां परमेश्वरदूतस्तस्मै दर्शनं ददौ।
31मूसास्तस्मिन् दर्शने विस्मयं मत्वा विशेषं ज्ञातुं निकटं गच्छति,
32एतस्मिन् समये, अहं तव पूर्व्वपुरुषाणाम् ईश्वरोऽर्थाद् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वरश्च, मूसामुद्दिश्य परमेश्वरस्यैतादृशी विहायसीया वाणी बभूव, ततः स कम्पान्वितः सन् पुन र्निरीक्षितुं प्रगल्भो न बभूव।
33परमेश्वरस्तं जगाद, तव पादयोः पादुके मोचय यत्र तिष्ठसि सा पवित्रभूमिः।
34अहं मिसरदेशस्थानां निजलोकानां दुर्द्दशां नितान्तम् अपश्यं, तेषां कातर्य्योक्तिञ्च श्रुतवान् तस्मात् तान् उद्धर्त्तुम् अवरुह्यागमम्; इदानीम् आगच्छ मिसरदेशं त्वां प्रेषयामि।
35कस्त्वां शास्तृत्वविचारयितृत्वपदयो र्नियुक्तवान्, इति वाक्यमुक्त्वा तै र्यो मूसा अवज्ञातस्तमेव ईश्वरः स्तम्बमध्ये दर्शनदात्रा तेन दूतेन शास्तारं मुक्तिदातारञ्च कृत्वा प्रेषयामास।
36स च मिसरदेशे सूफ्नाम्नि समुद्रे च पश्चात् चत्वारिंशद्वत्सरान् यावत् महाप्रान्तरे नानाप्रकाराण्यद्भुतानि कर्म्माणि लक्षणानि च दर्शयित्वा तान् बहिः कृत्वा समानिनाय।
37प्रभुः परमेश्वरो युष्माकं भ्रातृगणस्य मध्ये मादृशम् एकं भविष्यद्वक्तारम् उत्पादयिष्यति तस्य कथायां यूयं मनो निधास्यथ, यो जन इस्रायेलः सन्तानेभ्य एनां कथां कथयामास स एष मूसाः।
38महाप्रान्तरस्थमण्डलीमध्येऽपि स एव सीनयपर्व्वतोपरि तेन सार्द्धं संलापिनो दूतस्य चास्मत्पितृगणस्य मध्यस्थः सन् अस्मभ्यं दातव्यनि जीवनदायकानि वाक्यानि लेभे।
39अस्माकं पूर्व्वपुरुषास्तम् अमान्यं कत्वा स्वेभ्यो दूरीकृत्य मिसरदेशं परावृत्य गन्तुं मनोभिरभिलष्य हारोणं जगदुः,
40अस्माकम् अग्रेऽग्रे गन्तुुम् अस्मदर्थं देवगणं निर्म्माहि यतो यो मूसा अस्मान् मिसरदेशाद् बहिः कृत्वानीतवान् तस्य किं जातं तदस्माभि र्न ज्ञायते।
41तस्मिन् समये ते गोवत्साकृतिं प्रतिमां निर्म्माय तामुद्दिश्य नैवेद्यमुत्मृज्य स्वहस्तकृतवस्तुना आनन्दितवन्तः।
42तस्माद् ईश्वरस्तेषां प्रति विमुखः सन् आकाशस्थं ज्योतिर्गणं पूजयितुं तेभ्योऽनुमतिं ददौ, यादृशं भविष्यद्वादिनां ग्रन्थेषु लिखितमास्ते, यथा, इस्रायेलीयवंशा रे चत्वारिंशत्समान् पुरा। महति प्रान्तरे संस्था यूयन्तु यानि च। बलिहोमादिकर्म्माणि कृतवन्तस्तु तानि किं। मां समुद्दिश्य युष्माभिः प्रकृतानीति नैव च।

Read प्रेरिताः 7प्रेरिताः 7
Compare प्रेरिताः 7:24-42प्रेरिताः 7:24-42