9ततः सर्व्वे लोकास्तं गमनागमने कुर्व्वन्तम् ईश्वरं धन्यं वदन्तञ्च विलोक्य
10मन्दिरस्य सुन्दरे द्वारे य उपविश्य भिक्षितवान् सएवायम् इति ज्ञात्वा तं प्रति तया घटनया चमत्कृता विस्मयापन्नाश्चाभवन्।
11यः खञ्जः स्वस्थोभवत् तेन पितरयोहनोः करयोर्ध्टतयोः सतोः सर्व्वे लोका सन्निधिम् आगच्छन्।
12तद् दृष्ट्वा पितरस्तेभ्योऽकथयत्, हे इस्रायेलीयलोका यूयं कुतो ऽनेनाश्चर्य्यं मन्यध्वे? आवां निजशक्त्या यद्वा निजपुण्येन खञ्जमनुष्यमेनं गमितवन्ताविति चिन्तयित्वा आवां प्रति कुतोऽनन्यदृष्टिं कुरुथ?
13यं यीशुं यूयं परकरेषु समार्पयत ततो यं पीलातो मोचयितुम् एैच्छत् तथापि यूयं तस्य साक्षान् नाङ्गीकृतवन्त इब्राहीम इस्हाको याकूबश्चेश्वरोऽर्थाद् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरः स्वपुत्रस्य तस्य यीशो र्महिमानं प्राकाशयत्।