Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 2

प्रेरिताः 2:37-44

Help us?
Click on verse(s) to share them!
37एतादृशीं कथां श्रुत्वा तेषां हृदयानां विदीर्णत्वात् ते पितराय तदन्यप्रेरितेभ्यश्च कथितवन्तः, हे भ्रातृगण वयं किं करिष्यामः?
38ततः पितरः प्रत्यवदद् यूयं सर्व्वे स्वं स्वं मनः परिवर्त्तयध्वं तथा पापमोचनार्थं यीशुख्रीष्टस्य नाम्ना मज्जिताश्च भवत, तस्माद् दानरूपं परित्रम् आत्मानं लप्स्यथ।
39यतो युष्माकं युष्मत्सन्तानानाञ्च दूरस्थसर्व्वलोकानाञ्च निमित्तम् अर्थाद् अस्माकं प्रभुः परमेश्वरो यावतो लाकान् आह्वास्यति तेषां सर्व्वेषां निमित्तम् अयमङ्गीकार आस्ते।
40एतदन्याभि र्बहुकथाभिः प्रमाणं दत्वाकथयत् एतेभ्यो विपथगामिभ्यो वर्त्तमानलोकेभ्यः स्वान् रक्षत।
41ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः
42प्रेरितानाम् उपदेशे सङ्गतौ पूपभञ्जने प्रार्थनासु च मनःसंयोगं कृत्वातिष्ठन्।
43प्रेरितै र्नानाप्रकारलक्षणेषु महाश्चर्य्यकर्ममसु च दर्शितेषु सर्व्वलोकानां भयमुपस्थितं।
44विश्वासकारिणः सर्व्व च सह तिष्ठनतः। स्वेषां सर्व्वाः सम्पत्तीः साधारण्येन स्थापयित्वाभुञ्जत।

Read प्रेरिताः 2प्रेरिताः 2
Compare प्रेरिताः 2:37-44प्रेरिताः 2:37-44