Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 2

प्रेरिताः 2:3-16

Help us?
Click on verse(s) to share them!
3ततः परं वह्निशिखास्वरूपा जिह्वाः प्रत्यक्षीभूय विभक्ताः सत्यः प्रतिजनोर्द्ध्वे स्थगिता अभूवन्।
4तस्मात् सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त आत्मा यथा वाचितवान् तदनुसारेणान्यदेशीयानां भाषा उक्तवन्तः।
5तस्मिन् समये पृथिवीस्थसर्व्वदेशेभ्यो यिहूदीयमतावलम्बिनो भक्तलोका यिरूशालमि प्रावसन्;
6तस्याः कथायाः किंवदन्त्या जातत्वात् सर्व्वे लोका मिलित्वा निजनिजभाषया शिष्याणां कथाकथनं श्रुत्वा समुद्विग्ना अभवन्।
7सर्व्वएव विस्मयापन्ना आश्चर्य्यान्विताश्च सन्तः परस्परं उक्तवन्तः पश्यत ये कथां कथयन्ति ते सर्व्वे गालीलीयलोकाः किं न भवन्ति?
8तर्हि वयं प्रत्येकशः स्वस्वजन्मदेशीयभाषाभिः कथा एतेषां शृणुमः किमिदं?
9पार्थी-मादी-अराम्नहरयिम्देशनिवासिमनो यिहूदा-कप्पदकिया-पन्त-आशिया-
10फ्रुगिया-पम्फुलिया-मिसरनिवासिनः कुरीणीनिकटवर्त्तिलूबीयप्रदेशनिवासिनो रोमनगराद् आगता यिहूदीयलोका यिहूदीयमतग्राहिणः क्रीतीया अराबीयादयो लोकाश्च ये वयम्
11अस्माकं निजनिजभाषाभिरेतेषाम् ईश्वरीयमहाकर्म्मव्याख्यानं शृणुमः।
12इत्थं ते सर्व्वएव विस्मयापन्नाः सन्दिग्धचित्ताः सन्तः परस्परमूचुः, अस्य को भावः?
13अपरे केचित् परिहस्य कथितवन्त एते नवीनद्राक्षारसेन मत्ता अभवन्।
14तदा पितर एकादशभि र्जनैः साकं तिष्ठन् ताल्लोकान् उच्चैःकारम् अवदत्, हे यिहूदीया हे यिरूशालम्निवासिनः सर्व्वे, अवधानं कृत्वा मदीयवाक्यं बुध्यध्वं।
15इदानीम् एकयामाद् अधिका वेला नास्ति तस्माद् यूयं यद् अनुमाथ मानवा इमे मद्यपानेन मत्तास्तन्न।
16किन्तु योयेल्भविष्यद्वक्त्रैतद्वाक्यमुक्तं यथा,

Read प्रेरिताः 2प्रेरिताः 2
Compare प्रेरिताः 2:3-16प्रेरिताः 2:3-16