Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 26

प्रेरिताः 26:25-32

Help us?
Click on verse(s) to share them!
25स उक्तवान् हे महामहिम फीष्ट नाहम् उन्मत्तः किन्तु सत्यं विवेचनीयञ्च वाक्यं प्रस्तौमि।
26यस्य साक्षाद् अक्षोभः सन् कथां कथयामि स राजा तद्वृत्तान्तं जानाति तस्य समीपे किमपि गुप्तं नेति मया निश्चितं बुध्यते यतस्तद् विजने न कृतं।
27हे आग्रिप्पराज भवान् किं भविष्यद्वादिगणोक्तानि वाक्यानि प्रत्येति? भवान् प्रत्येति तदहं जानामि।
28तत आग्रिप्पः पौलम् अभिहितवान् त्वं प्रवृत्तिं जनयित्वा प्रायेण मामपि ख्रीष्टीयं करोषि।
29ततः सोऽवादीत् भवान् ये ये लोकाश्च मम कथाम् अद्य शृण्वन्ति प्रायेण इति नहि किन्त्वेतत् शृङ्खलबन्धनं विना सर्व्वथा ते सर्व्वे मादृशा भवन्त्वितीश्वस्य समीपे प्रार्थयेऽहम्।
30एतस्यां कथायां कथितायां स राजा सोऽधिपति र्बर्णीकी सभास्था लोकाश्च तस्माद् उत्थाय
31गोपने परस्परं विविच्य कथितवन्त एष जनो बन्धनार्हं प्राणहननार्हं वा किमपि कर्म्म नाकरोत्।
32तत आग्रिप्पः फीष्टम् अवदत्, यद्येष मानुषः कैसरस्य निकटे विचारितो भवितुं न प्रार्थयिष्यत् तर्हि मुक्तो भवितुम् अशक्ष्यत्।

Read प्रेरिताः 26प्रेरिताः 26
Compare प्रेरिताः 26:25-32प्रेरिताः 26:25-32