5ततः पौलः प्रतिभाषितवान् हे भ्रातृगण महायाजक एष इति न बुद्धं मया तदन्यच्च स्वलोकानाम् अधिपतिं प्रति दुर्व्वाक्यं मा कथय, एतादृशी लिपिरस्ति।
6अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि।
7इति कथायां कथितायां फिरूशिसिदूकिनोः परस्परं भिन्नवाक्यत्वात् सभाया मध्ये द्वौ संघौ जातौ।
8यतः सिदूकिलोका उत्थानं स्वर्गीयदूता आत्मानश्च सर्व्वेषाम् एतेषां कमपि न मन्यन्ते, किन्तु फिरूशिनः सर्व्वम् अङ्गीकुर्व्वन्ति।
9ततः परस्परम् अतिशयकोलाहले समुपस्थिते फिरूशिनां पक्षीयाः सभास्था अध्यापकाः प्रतिपक्षा उत्तिष्ठन्तो ऽकथयन्, एतस्य मानवस्य कमपि दोषं न पश्यामः; यदि कश्चिद् आत्मा वा कश्चिद् दूत एनं प्रत्यादिशत् तर्हि वयम् ईश्वरस्य प्रातिकूल्येन न योत्स्यामः।
10तस्माद् अतीव भिन्नवाक्यत्वे सति ते पौलं खण्डं खण्डं करिष्यन्तीत्याशङ्कया सहस्रसेनापतिः सेनागणं तत्स्थानं यातुं सभातो बलात् पौलं धृत्वा दुर्गं नेतञ्चाज्ञापयत्।
11रात्रो प्रभुस्तस्य समीपे तिष्ठन् कथितवान् हे पौल निर्भयो भव यथा यिरूशालम्नगरे मयि साक्ष्यं दत्तवान् तथा रोमानगरेपि त्वया दातव्यम्।
12दिने समुपस्थिते सति कियन्तो यिहूदीयलोका एकमन्त्रणाः सन्तः पौलं न हत्वा भोजनपाने करिष्याम इति शपथेन स्वान् अबध्नन्।
13चत्वारिंशज्जनेभ्योऽधिका लोका इति पणम् अकुर्व्वन्।