Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 22

प्रेरिताः 22:3-14

Help us?
Click on verse(s) to share them!
3पश्चात् सोऽकथयद् अहं यिहूदीय इति निश्चयः किलिकियादेशस्य तार्षनगरं मम जन्मभूमिः,एतन्नगरीयस्य गमिलीयेलनाम्नोऽध्यापकस्य शिष्यो भूत्वा पूर्व्वपुरुषाणां विधिव्यवस्थानुसारेण सम्पूर्णरूपेण शिक्षितोऽभवम् इदानीन्तना यूयं यादृशा भवथ तादृशोऽहमपीश्वरसेवायाम् उद्योगी जातः।
4मतमेतद् द्विष्ट्वा तद्ग्राहिनारीपुरुषान् कारायां बद्ध्वा तेषां प्राणनाशपर्य्यन्तां विपक्षताम् अकरवम्।
5महायाजकः सभासदः प्राचीनलोकाश्च ममैतस्याः कथायाः प्रमाणं दातुं शक्नुवन्ति, यस्मात् तेषां समीपाद् दम्मेषकनगरनिवासिभ्रातृगणार्थम् आज्ञापत्राणि गृहीत्वा ये तत्र स्थितास्तान् दण्डयितुं यिरूशालमम् आनयनार्थं दम्मेषकनगरं गतोस्मि।
6किन्तु गच्छन् तन्नगरस्य समीपं प्राप्तवान् तदा द्वितीयप्रहरवेलायां सत्याम् अकस्माद् गगणान्निर्गत्य महती दीप्ति र्मम चतुर्दिशि प्रकाशितवती।
7ततो मयि भूमौै पतिते सति, हे शौल हे शौल कुतो मां ताडयसि? माम्प्रति भाषित एतादृश एको रवोपि मया श्रुतः।
8तदाहं प्रत्यवदं, हे प्रभे को भवान्? ततः सोऽवादीत् यं त्वं ताडयसि स नासरतीयो यीशुरहं।
9मम सङ्गिनो लोकास्तां दीप्तिं दृष्ट्वा भियं प्राप्ताः, किन्तु माम्प्रत्युदितं तद्वाक्यं तेे नाबुध्यन्त।
10ततः परं पृष्टवानहं, हे प्रभो मया किं कर्त्तव्यं? ततः प्रभुरकथयत्, उत्थाय दम्मेषकनगरं याहि त्वया यद्यत् कर्त्तव्यं निरूपितमास्ते तत् तत्र त्वं ज्ञापयिष्यसे।
11अनन्तरं तस्याः खरतरदीप्तेः कारणात् किमपि न दृष्ट्वा सङ्गिगणेन धृतहस्तः सन् दम्मेषकनगरं व्रजितवान्।
12तन्नगरनिवासिनां सर्व्वेषां यिहूदीयानां मान्यो व्यवस्थानुसारेण भक्तश्च हनानीयनामा मानव एको
13मम सन्निधिम् एत्य तिष्ठन् अकथयत्, हे भ्रातः शौल सुदृष्टि र्भव तस्मिन् दण्डेऽहं सम्यक् तं दृष्टवान्।
14ततः स मह्यं कथितवान् यथा त्वम् ईश्वरस्याभिप्रायं वेत्सि तस्य शुद्धसत्त्वजनस्य दर्शनं प्राप्य तस्य श्रीमुखस्य वाक्यं शृणोषि तन्निमित्तम् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरस्त्वां मनोनीतं कृतवानं।

Read प्रेरिताः 22प्रेरिताः 22
Compare प्रेरिताः 22:3-14प्रेरिताः 22:3-14