15यतो यद्यद् अद्राक्षीरश्रौषीश्च सर्व्वेषां मानवानां समीपे त्वं तेषां साक्षी भविष्यसि।
16अतएव कुतो विलम्बसे? प्रभो र्नाम्ना प्रार्थ्य निजपापप्रक्षालनार्थं मज्जनाय समुत्तिष्ठ।
17ततः परं यिरूशालम्नगरं प्रत्यागत्य मन्दिरेऽहम् एकदा प्रार्थये, तस्मिन् समयेऽहम् अभिभूतः सन् प्रभूं साक्षात् पश्यन्,
18त्वं त्वरया यिरूशालमः प्रतिष्ठस्व यतो लोकामयि तव साक्ष्यं न ग्रहीष्यन्ति, माम्प्रत्युदितं तस्येदं वाक्यम् अश्रौषम्।
19ततोहं प्रत्यवादिषम् हे प्रभो प्रतिभजनभवनं त्वयि विश्वासिनो लोकान् बद्ध्वा प्रहृतवान्,
20तथा तव साक्षिणः स्तिफानस्य रक्तपातनसमये तस्य विनाशं सम्मन्य सन्निधौ तिष्ठन् हन्तृलोकानां वासांसि रक्षितवान्, एतत् ते विदुः।
21ततः सोऽकथयत् प्रतिष्ठस्व त्वां दूरस्थभिन्नदेशीयानां समीपं प्रेषयिष्ये।
22तदा लोका एतावत्पर्य्यन्तां तदीयां कथां श्रुत्वा प्रोच्चैरकथयन्, एनं भूमण्डलाद् दूरीकुरुत, एतादृशजनस्य जीवनं नोचितम्।
23इत्युच्चैः कथयित्वा वसनानि परित्यज्य गगणं प्रति धूलीरक्षिपन्
24ततः सहस्रसेनापतिः पौलं दुर्गाभ्यन्तर नेतुं समादिशत्। एतस्य प्रतिकूलाः सन्तो लोकाः किन्निमित्तम् एतावदुच्चैःस्वरम् अकुर्व्वन्, एतद् वेत्तुं तं कशया प्रहृत्य तस्य परीक्षां कर्त्तुमादिशत्।
25पदातयश्चर्म्मनिर्म्मितरज्जुभिस्तस्य बन्धनं कर्त्तुमुद्यतास्तास्तदानीं पौलः सम्मुखस्थितं शतसेनापतिम् उक्तवान् दण्डाज्ञायाम् अप्राप्तायां किं रोमिलोकं प्रहर्त्तुं युष्माकम् अधिकारोस्ति?
26एनां कथां श्रुत्वा स सहस्रसेनापतेः सन्निधिं गत्वा तां वार्त्तामवदत् स रोमिलोक एतस्मात् सावधानः सन् कर्म्म कुरु।
27तस्मात् सहस्रसेनापति र्गत्वा तमप्राक्षीत् त्वं किं रोमिलोकः? इति मां ब्रूहि। सोऽकथयत् सत्यम्।
28ततः सहस्रसेनापतिः कथितवान् बहुद्रविणं दत्त्वाहं तत् पौरसख्यं प्राप्तवान्; किन्तु पौलः कथितवान् अहं जनुना तत् प्राप्तोऽस्मि।
29इत्थं सति ये प्रहारेण तं परीक्षितुं समुद्यता आसन् ते तस्य समीपात् प्रातिष्ठन्त; सहस्रसेनापतिस्तं रोमिलोकं विज्ञाय स्वयं यत् तस्य बन्धनम् अकार्षीत् तत्कारणाद् अबिभेत्।
30यिहूदीयलोकाः पौलं कुतोऽपवदन्ते तस्य वृत्तान्तं ज्ञातुं वाञ्छन् सहस्रसेनापतिः परेऽहनि पौलं बन्धनात् मोचयित्वा प्रधानयाजकान् महासभायाः सर्व्वलोकाश्च समुपस्थातुम् आदिश्य तेषां सन्निधौ पौलम् अवरोह्य स्थापितवान्।