Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 18

प्रेरिताः 18:3-7

Help us?
Click on verse(s) to share them!
3तौ दूष्यनिर्म्माणजीविनौ, तस्मात् परस्परम् एकवृत्तिकत्वात् स ताभ्यां सह उषित्वा तत् कर्म्माकरोत्।
4पौलः प्रतिविश्रामवारं भजनभवनं गत्वा विचारं कृत्वा यिहूदीयान् अन्यदेशीयांश्च प्रवृत्तिं ग्राहितवान्।
5सीलतीमथिययो र्माकिदनियादेशात् समेतयोः सतोः पौल उत्तप्तमना भूत्वा यीशुरीश्वरेणाभिषिक्तो भवतीति प्रमाणं यिहूदीयानां समीपे प्रादात्।
6किन्तु ते ऽतीव विरोधं विधाय पाषण्डीयकथां कथितवन्तस्ततः पौलो वस्त्रं धुन्वन् एतां कथां कथितवान्, युष्माकं शोणितपातापराधो युष्मान् प्रत्येव भवतु, तेनाहं निरपराधो ऽद्यारभ्य भिन्नदेशीयानां समीपं यामि।
7स तस्मात् प्रस्थाय भजनभवनसमीपस्थस्य युस्तनाम्न ईश्वरभक्तस्य भिन्नदेशीयस्य निवेशनं प्राविशत्।

Read प्रेरिताः 18प्रेरिताः 18
Compare प्रेरिताः 18:3-7प्रेरिताः 18:3-7