Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 18

प्रेरिताः 18:23-25

Help us?
Click on verse(s) to share them!
23तत्र कियत्कालं यापयित्वा तस्मात् प्रस्थाय सर्व्वेषां शिष्याणां मनांसि सुस्थिराणि कृत्वा क्रमशो गलातियाफ्रुगियादेशयो र्भ्रमित्वा गतवान्।
24तस्मिन्नेव समये सिकन्दरियानगरे जात आपल्लोनामा शास्त्रवित् सुवक्ता यिहूदीय एको जन इफिषनगरम् आगतवान्।
25स शिक्षितप्रभुमार्गो मनसोद्योगी च सन् योहनो मज्जनमात्रं ज्ञात्वा यथार्थतया प्रभोः कथां कथयन् समुपादिशत्।

Read प्रेरिताः 18प्रेरिताः 18
Compare प्रेरिताः 18:23-25प्रेरिताः 18:23-25