6तेषामुद्देशम् अप्राप्य च यासोनं कतिपयान् भ्रातृंश्च धृत्वा नगराधिपतीनां निकटमानीय प्रोच्चैः कथितवन्तो ये मनुष्या जगदुद्वाटितवन्तस्ते ऽत्राप्युपस्थिताः सन्ति,
7एष यासोन् आतिथ्यं कृत्वा तान् गृहीतवान्। यीशुनामक एको राजस्तीति कथयन्तस्ते कैसरस्याज्ञाविरुद्धं कर्म्म कुर्व्वति।
8तेषां कथामिमां श्रुत्वा लोकनिवहो नगराधिपतयश्च समुद्विग्ना अभवन्।
9तदा यासोनस्तदन्येषाञ्च धनदण्डं गृहीत्वा तान् परित्यक्तवन्तः।
10ततः परं भ्रातृगणो रजन्यां पौलसीलौ शीघ्रं बिरयानगरं प्रेषितवान् तौ तत्रोपस्थाय यिहूदीयानां भजनभवनं गतवन्तौ।
11तत्रस्था लोकाः थिषलनीकीस्थलोकेभ्यो महात्मान आसन् यत इत्थं भवति न वेति ज्ञातुं दिने दिने धर्म्मग्रन्थस्यालोचनां कृत्वा स्वैरं कथाम् अगृह्लन्।
12तस्माद् अनेके यिहूदीया अन्यदेशीयानां मान्या स्त्रियः पुरुषाश्चानेके व्यश्वसन्।
13किन्तु बिरयानगरे पौलेनेश्वरीया कथा प्रचार्य्यत इति थिषलनीकीस्था यिहूदीया ज्ञात्वा तत्स्थानमप्यागत्य लोकानां कुप्रवृत्तिम् अजनयन्।
14अतएव तस्मात् स्थानात् समुद्रेण यान्तीति दर्शयित्वा भ्रातरः क्षिप्रं पौलं प्राहिण्वन् किन्तु सीलतीमथियौ तत्र स्थितवन्तौ।