24जगतो जगत्स्थानां सर्व्ववस्तूनाञ्च स्रष्टा य ईश्वरः स स्वर्गपृथिव्योरेकाधिपतिः सन् करनिर्म्मितमन्दिरेषु न निवसति;
25स एव सर्व्वेभ्यो जीवनं प्राणान् सर्व्वसामग्रीश्च प्रददाति; अतएव स कस्याश्चित् सामग्य्रा अभावहेतो र्मनुष्याणां हस्तैः सेवितो भवतीति न।
26स भूमण्डले निवासार्थम् एकस्मात् शोणितात् सर्व्वान् मनुष्यान् सृष्ट्वा तेषां पूर्व्वनिरूपितसमयं वसतिसीमाञ्च निरचिनोत्;