Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 17

प्रेरिताः 17:18-21

Help us?
Click on verse(s) to share them!
18किन्त्विपिकूरीयमतग्रहिणः स्तोयिकीयमतग्राहिणश्च कियन्तो जनास्तेन सार्द्धं व्यवदन्त। तत्र केचिद् अकथयन् एष वाचालः किं वक्तुम् इच्छति? अपरे केचिद् एष जनः केषाञ्चिद् विदेशीयदेवानां प्रचारक इत्यनुमीयते यतः स यीशुम् उत्थितिञ्च प्रचारयत्।
19ते तम् अरेयपागनाम विचारस्थानम् आनीय प्रावोचन् इदं यन्नवीनं मतं त्वं प्राचीकश इदं कीदृशं एतद् अस्मान् श्रावय;
20यामिमाम् असम्भवकथाम् अस्माकं कर्णगोचरीकृतवान् अस्या भावार्थः क इति वयं ज्ञातुम् इच्छामः।
21तदाथीनीनिवासिनस्तन्नगरप्रवासिनश्च केवलं कस्याश्चन नवीनकथायाः श्रवणेन प्रचारणेन च कालम् अयापयन्।

Read प्रेरिताः 17प्रेरिताः 17
Compare प्रेरिताः 17:18-21प्रेरिताः 17:18-21