Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 17

प्रेरिताः 17:11-14

Help us?
Click on verse(s) to share them!
11तत्रस्था लोकाः थिषलनीकीस्थलोकेभ्यो महात्मान आसन् यत इत्थं भवति न वेति ज्ञातुं दिने दिने धर्म्मग्रन्थस्यालोचनां कृत्वा स्वैरं कथाम् अगृह्लन्।
12तस्माद् अनेके यिहूदीया अन्यदेशीयानां मान्या स्त्रियः पुरुषाश्चानेके व्यश्वसन्।
13किन्तु बिरयानगरे पौलेनेश्वरीया कथा प्रचार्य्यत इति थिषलनीकीस्था यिहूदीया ज्ञात्वा तत्स्थानमप्यागत्य लोकानां कुप्रवृत्तिम् अजनयन्।
14अतएव तस्मात् स्थानात् समुद्रेण यान्तीति दर्शयित्वा भ्रातरः क्षिप्रं पौलं प्राहिण्वन् किन्तु सीलतीमथियौ तत्र स्थितवन्तौ।

Read प्रेरिताः 17प्रेरिताः 17
Compare प्रेरिताः 17:11-14प्रेरिताः 17:11-14