Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 16

प्रेरिताः 16:31-39

Help us?
Click on verse(s) to share them!
31पश्चात् तौ स्वगृहमानीय तयोः सम्मुखे खाद्यद्रव्याणि स्थापितवान् तथा स स्वयं तदीयाः सर्व्वे परिवाराश्चेश्वरे विश्वसन्तः सानन्दिता अभवन्।
32तस्मै तस्य गृहस्थितसर्व्वलोकेभ्यश्च प्रभोः कथां कथितवन्तौ।
33तथा रात्रेस्तस्मिन्नेव दण्डे स तौ गृहीत्वा तयोः प्रहाराणां क्षतानि प्रक्षालितवान् ततः स स्वयं तस्य सर्व्वे परिजनाश्च मज्जिता अभवन्।
34पश्चात् तौ स्वगृहमानीय तयोः सम्मुखे खाद्यद्रव्याणि स्थापितवान् तथा स स्वयं तदीयाः सर्व्वे परिवाराश्चेश्वरे विश्वसन्तः सानन्दिता अभवन्।
35दिन उपस्थिते तौ लोकौ मोचयेति कथां कथयितुं शासकाः पदातिगणं प्रेषितवन्तः।
36ततः कारारक्षकः पौलाय तां वार्त्तां कथितवान् युवां त्याजयितुं शासका लोकान प्रेषितवन्त इदानीं युवां बहि र्भूत्वा कुशलेन प्रतिष्ठेतां।
37किन्तु पौलस्तान् अवदत् रोमिलोकयोरावयोः कमपि दोषम् न निश्चित्य सर्व्वेषां समक्षम् आवां कशया ताडयित्वा कारायां बद्धवन्त इदानीं किमावां गुप्तं विस्त्रक्ष्यन्ति? तन्न भविष्यति, स्वयमागत्यावां बहिः कृत्वा नयन्तु।
38तदा पदातिभिः शासकेभ्य एतद्वार्त्तायां कथितायां तौ रोमिलोकाविति कथां श्रुत्वा ते भीताः
39सन्तस्तयोः सन्निधिमागत्य विनयम् अकुर्व्वन् अपरं बहिः कृत्वा नगरात् प्रस्थातुं प्रार्थितवन्तः।

Read प्रेरिताः 16प्रेरिताः 16
Compare प्रेरिताः 16:31-39प्रेरिताः 16:31-39