10तस्येत्थं स्वप्नदर्शनात् प्रभुस्तद्देशीयलोकान् प्रति सुसंवादं प्रचारयितुम् अस्मान् आहूयतीति निश्चितं बुद्ध्वा वयं तूर्णं माकिदनियादेशं गन्तुम् उद्योगम् अकुर्म्म।
11ततः परं वयं त्रोयानगराद् प्रस्थाय ऋजुमार्गेण सामथ्राकियोपद्वीपेन गत्वा परेऽहनि नियापलिनगर उपस्थिताः।
12तस्माद् गत्वा माकिदनियान्तर्व्वर्त्ति रोमीयवसतिस्थानं यत् फिलिपीनामप्रधाननगरं तत्रोपस्थाय कतिपयदिनानि तत्र स्थितवन्तः।
13विश्रामवारे नगराद् बहि र्गत्वा नदीतटे यत्र प्रार्थनाचार आसीत् तत्रोपविश्य समागता नारीः प्रति कथां प्राचारयाम।
14ततः थुयातीरानगरीया धूषराम्बरविक्रायिणी लुदियानामिका या ईश्वरसेविका योषित् श्रोत्रीणां मध्य आसीत् तया पौलोक्तवाक्यानि यद् गृह्यन्ते तदर्थं प्रभुस्तस्या मनोद्वारं मुक्तवान्।
15अतः सा योषित् सपरिवारा मज्जिता सती विनयं कृत्वा कथितवती, युष्माकं विचाराद् यदि प्रभौ विश्वासिनी जाताहं तर्हि मम गृहम् आगत्य तिष्ठत। इत्थं सा यत्नेनास्मान् अस्थापयत्।
16यस्या गणनया तदधिपतीनां बहुधनोपार्जनं जातं तादृशी गणकभूतग्रस्ता काचन दासी प्रार्थनास्थानगमनकाल आगत्यास्मान् साक्षात् कृतवती।
17सास्माकं पौलस्य च पश्चाद् एत्य प्रोच्चैः कथामिमां कथितवती, मनुष्या एते सर्व्वोपरिस्थस्येश्वरस्य सेवकाः सन्तोऽस्मान् प्रति परित्राणस्य मार्गं प्रकाशयन्ति।
18सा कन्या बहुदिनानि तादृशम् अकरोत् तस्मात् पौलो दुःखितः सन् मुखं परावर्त्य तं भूतमवदद्, अहं यीशुख्रीष्टस्य नाम्ना त्वामाज्ञापयामि त्वमस्या बहिर्गच्छ; तेनैव तत्क्षणात् स भूतस्तस्या बहिर्गतः।
19ततः स्वेषां लाभस्य प्रत्याशा विफला जातेति विलोक्य तस्याः प्रभवः पौलं सीलञ्च धृत्वाकृष्य विचारस्थानेऽधिपतीनां समीपम् आनयन्।
20ततः शासकानां निकटं नीत्वा रोमिलोका वयम् अस्माकं यद् व्यवहरणं ग्रहीतुम् आचरितुञ्च निषिद्धं,
21इमे यिहूदीयलोकाः सन्तोपि तदेव शिक्षयित्वा नगरेऽस्माकम् अतीव कलहं कुर्व्वन्ति,
22इति कथिते सति लोकनिवहस्तयोः प्रातिकूल्येनोदतिष्ठत् तथा शासकास्तयो र्वस्त्राणि छित्वा वेत्राघातं कर्त्तुम् आज्ञापयन्।