Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 13

प्रेरिताः 13:6-12

Help us?
Click on verse(s) to share them!
6इत्थं ते तस्योपद्वीपस्य सर्व्वत्र भ्रमन्तः पाफनगरम् उपस्थिताः; तत्र सुविवेचकेन सर्जियपौलनाम्ना तद्देशाधिपतिना सह भविष्यद्वादिनो वेशधारी बर्यीशुनामा यो मायावी यिहूदी आसीत् तं साक्षात् प्राप्तवतः।
7तद्देशाधिप ईश्वरस्य कथां श्रोतुं वाञ्छन् पौलबर्णब्बौ न्यमन्त्रयत्।
8किन्त्विलुमा यं मायाविनं वदन्ति स देशाधिपतिं धर्म्ममार्गाद् बहिर्भूतं कर्त्तुम् अयतत।
9तस्मात् शोलोऽर्थात् पौलः पवित्रेणात्मना परिपूर्णः सन् तं मायाविनं प्रत्यनन्यदृष्टिं कृत्वाकथयत्,
10हे नरकिन् धर्म्मद्वेषिन् कौटिल्यदुष्कर्म्मपरिपूर्ण, त्वं किं प्रभोः सत्यपथस्य विपर्य्ययकरणात् कदापि न निवर्त्तिष्यसे?
11अधुना परमेश्वरस्तव समुचितं करिष्यति तेन कतिपयदिनानि त्वम् अन्धः सन् सूर्य्यमपि न द्रक्ष्यसि। तत्क्षणाद् रात्रिवद् अन्धकारस्तस्य दृष्टिम् आच्छादितवान्; तस्मात् तस्य हस्तं धर्त्तुं स लोकमन्विच्छन् इतस्ततो भ्रमणं कृतवान्।
12एनां घटनां दृष्ट्वा स देशाधिपतिः प्रभूपदेशाद् विस्मित्य विश्वासं कृतवान्।

Read प्रेरिताः 13प्रेरिताः 13
Compare प्रेरिताः 13:6-12प्रेरिताः 13:6-12