7एतस्मिन् समये परमेश्वरस्य दूते समुपस्थिते कारा दीप्तिमती जाता; ततः स दूतः पितरस्य कुक्षावावातं कृत्वा तं जागरयित्वा भाषितवान् तूर्णमुत्तिष्ठ; ततस्तस्य हस्तस्थशृङ्खलद्वयं गलत् पतितं।
8स दूतस्तमवदत्, बद्धकटिः सन् पादयोः पादुके अर्पय; तेन तथा कृते सति दूतस्तम् उक्तवान् गात्रीयवस्त्रं गात्रे निधाय मम पश्चाद् एहि।
9ततः पितरस्तस्य पश्चाद् व्रजन बहिरगच्छत्, किन्तु दूतेन कर्म्मैतत् कृतमिति सत्यमज्ञात्वा स्वप्नदर्शनं ज्ञातवान्।
10इत्थं तौ प्रथमां द्वितीयाञ्च कारां लङ्घित्वा येन लौहनिर्म्मितद्वारेण नगरं गम्यते तत्समीपं प्राप्नुतां; ततस्तस्य कवाटं स्वयं मुक्तमभवत् ततस्तौ तत्स्थानाद् बहि र्भूत्वा मार्गैकस्य सीमां यावद् गतौ; ततोऽकस्मात् स दूतः पितरं त्यक्तवान्।