10इत्थं तौ प्रथमां द्वितीयाञ्च कारां लङ्घित्वा येन लौहनिर्म्मितद्वारेण नगरं गम्यते तत्समीपं प्राप्नुतां; ततस्तस्य कवाटं स्वयं मुक्तमभवत् ततस्तौ तत्स्थानाद् बहि र्भूत्वा मार्गैकस्य सीमां यावद् गतौ; ततोऽकस्मात् स दूतः पितरं त्यक्तवान्।
11तदा स चेतनां प्राप्य कथितवान् निजदूतं प्रहित्य परमेश्वरो हेरोदो हस्ताद् यिहूदीयलोकानां सर्व्वाशायाश्च मां समुद्धृतवान् इत्यहं निश्चयं ज्ञातवान्।
12स विविच्य मार्कनाम्रा विख्यातस्य योहनो मातु र्मरियमो यस्मिन् गृहे बहवः सम्भूय प्रार्थयन्त तन्निवेशनं गतः।
13पितरेण बहिर्द्वार आहते सति रोदानामा बालिका द्रष्टुं गता।
14ततः पितरस्य स्वरं श्रुवा सा हर्षयुक्ता सती द्वारं न मोचयित्वा पितरो द्वारे तिष्ठतीति वार्त्तां वक्तुम् अभ्यन्तरं धावित्वा गतवती।
15ते प्रावोचन् त्वमुन्मत्ता जातासि किन्तु सा मुहुर्मुहुरुक्तवती सत्यमेवैतत्।
16तदा ते कथितवन्तस्तर्हि तस्य दूतो भवेत्।
17पितरो द्वारमाहतवान् एतस्मिन्नन्तरे द्वारं मोचयित्वा पितरं दृष्ट्वा विस्मयं प्राप्ताः।
18ततः पितरो निःशब्दं स्थातुं तान् प्रति हस्तेन सङ्केतं कृत्वा परमेश्वरो येन प्रकारेण तं काराया उद्धृत्यानीतवान् तस्य वृत्तान्तं तानज्ञापयत्, यूयं गत्वा याकुबं भ्रातृगणञ्च वार्त्तामेतां वदतेत्युक्ता स्थानान्तरं प्रस्थितवान्।