Text copied!
CopyCompare
Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) - प्रेरिताः - प्रेरिताः 10

प्रेरिताः 10:40-45

Help us?
Click on verse(s) to share them!
40किन्तु तृतीयदिवसे ईश्वरस्तमुत्थाप्य सप्रकाशम् अदर्शयत्।
41सर्व्वलोकानां निकट इति न हि, किन्तु तस्मिन् श्मशानादुत्थिते सति तेन सार्द्धं भोजनं पानञ्च कृतवन्त एतादृशा ईश्वरस्य मनोनीताः साक्षिणो ये वयम् अस्माकं निकटे तमदर्शयत्।
42जीवितमृतोभयलोकानां विचारं कर्त्तुम् ईश्वरो यं नियुक्तवान् स एव स जनः, इमां कथां प्रचारयितुं तस्मिन् प्रमाणं दातुञ्च सोऽस्मान् आज्ञापयत्।
43यस्तस्मिन् विश्वसिति स तस्य नाम्ना पापान्मुक्तो भविष्यति तस्मिन् सर्व्वे भविष्यद्वादिनोपि एतादृशं साक्ष्यं ददति।
44पितरस्यैतत्कथाकथनकाले सर्व्वेषां श्रोतृणामुपरि पवित्र आत्मावारोहत्।
45ततः पितरेण सार्द्धम् आगतास्त्वक्छेदिनो विश्वासिनो लोका अन्यदेशीयेभ्यः पवित्र आत्मनि दत्ते सति

Read प्रेरिताः 10प्रेरिताः 10
Compare प्रेरिताः 10:40-45प्रेरिताः 10:40-45